!! त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधं !त्रिजन्मपापसंहारं एकबिल्वं शिवार्पणम् ॥ 1 ॥
!! त्रिशाखैर्बिल्वपत्रैश्च ह्यच्छिद्रैः कोमलैश्शुभैः !
शिवपूजां करिष्यामि एकबिल्वं शिवार्पणम् ॥ 2 ॥
!! अखण्डबिल्वपत्रेण पूजिते नन्दिकेश्वरे !
शुद्ध्यन्ति सर्वपापेभ्यः एकबिल्वं शिवार्पणम् ॥ 3 ॥
!! सालग्रामशिलामेकां जातु विप्राय योऽर्पयेत् !
सोमयज्ञमहापुण्यं एकबिल्वं शिवार्पणम् ॥ 4 ॥
!! दन्तिकोटिसहस्राणि वाजपेयशतानि च !
कोटिकन्यामहादानां एकबिल्वं शिवार्पणम् ॥ 5 ॥
!! पार्वत्यास्स्वेदतोत्पन्नं महादेवस्य च प्रियं !
बिल्ववृक्षं नमस्यामि एकबिल्वं शिवार्पणम् ॥ 6 ॥
!! दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनं !
अघोरपापसंहारं एकबिल्वं शिवार्पणम् ॥
!! मूलतो ब्रह्मरूपाय मध्यतो विष्णुरूपिणे !
अग्रतश्शिवरूपाय एकबिल्वं शिवार्पणम् ॥ 8 ॥
!! बिल्वाष्टक मिदं पुण्यं यः पठेच्छिवसन्निधौ !
सर्वपापविनिर्मुक्तः शिवलोकमवाप्नुयात् ॥ 9 ॥
No comments:
Post a Comment