॥ शान्त्याऽध्याय ॥


 


॥ शान्त्याऽध्याय ॥

ॐ ऋचंव्वाचम्प्रपद्ये मनोयजु: प्रपद्ये सामप्प्राणम्प्रपद्ये चक्षु: श्रोत्रम्प्रपद्ये । व्वागोजः सहौजोमयि प्प्राणापानौ ॥१॥

यन्मेच्छिद्द्रञ्चक्षुषो हृदयस्य मनसोव्वाति तृण्णम्बृहस्प्पतिर्म्मे तद्दधातु । शन्नो भवतु भुवनस्ययस्प्पति: ॥२॥

भूर्ब्भुवः स्वः तत्सवितुर्व्वरेण्यम्भर्गोदेवस्य धीमहि । धियो यो नः प्प्रचोदयात् ॥३॥

कयानश्च्चित्रऽ आभुवदूती सदावृधः सखा । कयाशचिष्ठ्ठयाव्वृता ॥४॥

कस्त्वासत्योमदानाम्म ᳪ हिष्ठ्ठोमत्सदन्धसः । दृढाचिदारुजेव्वसु ॥५॥

अभीषुणः सखीनामविताजरितृणाम् । शतम्भवास्यूतिभि: ॥६॥

कयात्वन्नऽऊत्याभिप्प्रमन्दसेव्वृषन् । कयास्तोतृब्भ्यऽआभर ॥७॥

इन्द्रोव्विश्श्वस्यराजति । शन्नोऽअस्तुद्विपदे शञ्चतुष्ष्पदे ॥८॥

शन्नोमित्रः शम्व्वरुणः शन्नो भवत्वर्य्यमा । शन्नऽइन्द्रो बृहस्प्पति शन्नोव्विष्ष्णुरुरुक्क्रमः ॥९॥

शन्नोव्वातः पवता ᳪ शन्नस्तपतुसूर्य्यः । शन्नः कनिक्क्रदद्देवः पर्ज्जन्न्योऽअभिवर्षतु ॥१०॥

अहानि शम्भवन्तुनः श ᳪ रात्री: प्प्रतिधीयताम् । शन्नऽइन्द्राग्ग्नी भवतामवोभि: शन्नऽइन्द्रावरुणारातहव्व्या । शन्न ऽइन्द्रापूषणा व्वाजसातौशमिन्द्रा सोमासुवितायशंय्यो: ॥११॥

शन्नोदेवीरभिष्ट्टयऽआपो भवन्तु पीतये । शंय्योरभिस्रवन्तुनः ॥१२॥

स्योना पृथिविनोभवानृक्षरानिवेशनी । यच्छानः शर्म्म सप्प्रथा: ॥१३॥

आपोहिष्ठ्ठामयोभुवस्तान ऽऊर्ज्जेदधातन । महेरणाय चक्षसे ॥१४॥

यो वः शिवतमोरसस्तस्यभाजयतेहनः । उशतीरिवमातरः ॥१५॥

तस्माऽअरङ्गमामवो यस्यक्षयायजिन्वथ । आपोजनयथा च नः ॥१६॥

द्यौ: शान्तिरन्तरिक्ष ᳪ शान्ति: पृथिवीशान्तिरापः शान्तिरोषधयः शान्ति: । व्वनस्प्पतयः शान्तिर्व्विश्वेदेवा: शान्तिर्ब्ब्रह्म शान्ति: सर्व्व ᳪ शान्ति: शान्तिरेवशान्ति: सामा शान्तिरेधि ॥१७॥

दृतेदृ ᳪ हमामित्रस्यमाचक्षुषा सर्व्वानि भूतानि समीक्षन्ताम् । मित्रस्याहञ्चक्षुषा सर्व्वानि भूतानिसमीक्षे । मित्रस्य चक्षुषा समीक्षामहे ॥१८॥

दृतेदृ ᳪ हमा । ज्ज्योक्क्तेसन्दृशि जीव्व्यासञ्ज्योक्क्ते सन्दृशिजीव्व्यासम् ॥१९॥

नमस्ते हरसे शोचिषे नमस्तेऽअस्त्वर्च्चिषे । अन्न्याँस्तेऽअस्म्मत्तपन्तुहेतयः पावकोऽअस्म्मब्भ्य ᳪ शिवोभव ॥२०॥

नमस्तेऽअस्तु व्विद्युते नमस्तेस्तनयित्नवे । नमस्ते भगवन्नस्तु यतः स्वः समीहसे ॥२१॥

यतोयतः समीहसे ततोनोऽअभयङ्कुरु । शन्नः कुरुप्प्रजाब्भ्योऽभयन्नः पशुब्भ्यः ॥२२॥

सुमित्रियानऽआपऽओषधयः सन्तुदुर्म्मित्रियास्तस्म्मै सन्तु योऽस्म्मान्द्वेष्ट्टि यञ्च वयन्द्विष्म्मः ॥२३॥

तच्चक्षुर्द्देवहितम्पुरस्ताच्च्छुक्क्रमुच्चरत् । पश्येमशरदः शतञ्जीवेमशरदः शत ᳪ श्रृणुयामशरदः शतं प्रब्बाम शरदः शतमदीना: स्यामशरदः शतम्भूयश्च्च शरदः शतात् ॥२४॥

॥ इति रुद्राष्टाध्यायी शान्त्याऽध्याय ॥

No comments:

Post a Comment