रुद्री का आठवां अध्याय – ॥ अष्टमोऽध्यायः ॥


 


रुद्री का आठवां अध्याय – ॥ अष्टमोऽध्यायः ॥

ॐ व्वाजश्च्च मे प्प्रसवश्च्च मे प्प्रयतिश्च्च मे प्प्रसितिश्च्च मे धीतिश्च्च मे क्क्रतुश्च्च मे स्वरश्च्च मे श्श्लोकश्च्च मे श्श्रवश्च्च मे श्श्रुतिश्च्च मे ज्ज्योतिश्च्च मे स्वश्च्च मे यज्ञेन कल्प्पन्ताम् ॥१॥

प्प्राणश्च्च मे पानश्च्च मे व्व्यानश्च्च मे सुश्च्च मे चित्तञ्चमऽआधीतञ्च मे व्वाक्चमे मनश्चमे चक्षुश्च्च मे श्रोत्रञ्चमे दक्षश्च्च मे बलञ्चमे यज्ञेन कल्प्पन्ताम् 

ओजश्च्च मे सहश्च्च मऽआत्मा च मे तनूश्च्च मे शर्म्म च मे व्वर्म्म च मेऽङ्गानि मेऽस्थीनि च मे परू ᳪ षि च मे शरीराणि च मऽआयुश्च्च मे जरा च मे यज्ञेन कल्प्पन्ताम् 

ज्ज्यैष्ठयञ्च मऽआधिपत्त्यञ्च मे मन्न्युश्च मे भामश्च्च मेऽमश्च्च मेऽम्भश्च्च मे जेमा च मे महिमा च मे व्वरिमा च मे प्प्रथिमा च मे व्वर्षिमा च मे द्द्राघिमा च मे व्वृद्धञ्च मे व्वृद्धिश्च्च मे यज्ञेन कल्प्पन्ताम् 

सत्त्यञ्च मे श्श्रद्धा च मे जगच्च मे धनञ्च मे महश्च्च मे क्क्रीडा च मे मोदश्च्च मे जातञ्च मे जनिष्ष्यमाणञ्च मे सूक्क्तञ्च मे सुकृतञ्च मे यज्ञेन कल्प्पन्ताम् 

ऋतञ्च मेऽमृतञ्च मेयक्ष्मञ्च मे नामयच्च मे जीवातुश्च्च मे दीर्घायुत्त्वञ्च मेनमित्रञ्च मेऽभयञ्च मे सुखञ्च मे शयनञ्च मे सूषाश्च्च मे सुदिनञ्च मे यज्ञेन कल्प्पन्ताम् 

यन्ता च मे धर्त्ता च मे क्षेमश्च्च मे धृतिश्च मे व्विश्श्वञ्च मे महश्श्च्च मे संव्विच्च मे ज्ञात्रञ्च मे सूश्च्च मे प्रसूश्च्च मे सीरञ्च मे लयश्च्च मे यज्ञेन कल्प्पन्ताम् 

शञ्च मे मयश्च्च मे प्प्रियञ्च मेऽनुकामश्च्च मे कामश्च्च मे सौमनसश्च्च मे भगश्च्च मे द्द्रविणञ्च मे भद्द्रञ्च मे श्श्रेयश्च्च मे व्वसीयश्च्च मे यशश्च्च मे यज्ञेन कल्प्पन्ताम् 

ऊर्क्क्च मे सूनृता च मे पयश्च्च मे रसश्च्च मे घृतञ्च मे मधु च मे सग्ग्धिश्च्च मे सपीतिश्च्च मे कृषिश्च्च मे व्वृष्ट्टिश्च्च मे जैत्रञ्च मऽऔद्भिद्यञ्च मे यज्ञेन कल्प्पन्ताम् 

रयिश्च्च मे रायश्च्च मे पुष्टञ्च मे पुष्ट्टिश्च्च मेव्विभु च मे प्प्रभु च मे पूर्णञ्च पूर्ण्णतरञ्च मे कुयवञ्च मेऽक्षितञ्च मेऽन्नञ्च मेऽक्षुच्च मे यज्ञेन कल्प्पन्ताम् १०

व्वित्तञ्च मे व्वेद्यञ्च मे भूतञ्च मे भविष्ष्यच्च मे सुगञ्च मे सुपत्थ्यञ्च मऽऋद्धञ्च मऽऋद्धिश्च्च मे क्लृपतञ्च मे क्लृप्तिश्च्च मे मतिश्च्च मे सुमतिश्च्च मे यज्ञेन कल्प्पन्ताम् ११

व्व्रीहयश्च्च मे यवाश्च्च मे माषाश्च्च मे तिलाश्च्च मे मुद्गाश्च्च मे खल्ल्वाश्च्च मे प्रियङ्गवश्च्च मेऽणवश्च्च मे श्यामाकाश्च्च मे नीवाराश्च्च मे गोधूमाश्च्च मे मसूराश्च्च मे यज्ञेन कल्प्पन्ताम् १२

अश्म्मा च मे मृत्तिका च मे गिरयश्च्च मे पर्व्वताश्च्च मे सिकताश्च्च मे व्वनस्प्पतयश्च्च मे हिरण्ण्यञ्च मे यश्च्च मे श्यामञ्च मे लोहञ्च मे सीसञ्च मे त्रपु च मे यज्ञेन कल्ल्पन्ताम् १३

अग्ग्निश्च्च मऽआपश्च्च मे व्वीरुधश्च्च मऽओषधयश्च्च मे कृष्ट्टपच्च्याश्च्च मेऽकृष्ट्टपच्च्याश्च्च मे ग्ग्राम्म्याश्च्च मे पशवऽआरण्ण्याश्च्च मे व्वित्तञ्च मे व्वित्तिश्च्च मे भूतञ्च मे भूतिश्च्च मे यज्ञेन कल्प्पन्ताम् १४

व्वसु च मे व्वसतिश्च्च मे कर्म्म च मे शक्तिश्च्च मऽर्थश्च्च मऽएमश्च्च मऽइत्या च मे गतिश्च्च मे यज्ञेन कल्प्पन्ताम् १५

अग्ग्निश्च मऽइन्द्रश्च्च मे सोमश्च मऽइन्द्रश्च्च मेसविताश्च मऽइन्द्रश्च्च मेसरस्वतीश्च मऽइन्द्रश्च्च मे पूषा च मऽइन्द्रश्च्च मे बृहस्प्पतिश्च मऽइन्द्रश्च्च मे यज्ञेन कल्प्पन्ताम् १६

मित्रश्च मऽइन्द्रश्च्च मे व्वरुणश्च मऽइन्द्रश्च्च मे धाता च मऽइन्द्रश्च्च मे त्त्वष्ट्टा च मऽइन्द्रश्च्च मे मरुतश्च मऽइन्द्रश्च्च मे व्विश्श्वे च मे देवाऽइन्द्रश्च्च मे यज्ञेन कल्प्पन्ताम् १७

पृथिवी च मऽइन्द्रश्च्च मेऽन्तरिक्षञ्च मऽइन्द्रश्च्च मे द्यौश्च मऽइन्द्रश्च्च मे समाश्च मऽइन्द्रश्च्च मे नक्षत्राणि च मऽइन्द्रश्च्च मे दिशश्च मऽइन्द्रश्च्च मे यज्ञेन कल्प्पन्ताम् १८

अ ᳪ शुष्च्च मे रश्म्मिश्च्च मेऽदाब्भ्यश्च्च मेऽधिपतिश्च्च म ऽउपा ᳪ शुष्च्च मेऽन्तर्य्यामश्च्च मऽऐन्द्रवायवश्च्च मे मैत्रावरुणश्च्च म ऽआश्विनश्च्च मे प्रतिप्रस्थानश्च्च मे शुक्क्रश्च्च मे मन्थी च मे यज्ञेन कल्प्पन्ताम् १९

आग्ग्रयणश्च मे व्वैश्वदेवश्च्च मे महावैश्वदेवश्च्च मे मरुत्त्वतीयाश्च्च मे निष्क्केवल्ल्यश्च्च मे सावित्रश्च्च मे सारस्वतश्च्च मे पात्क्नीवतश्च्च मे हारियोजनश्च्च मे यज्ञेन कल्प्पन्ताम् २०

स्रुचश्च्च मे चमसाश्च्च मे व्वायव्यानि च मे द्रोणकलशश्च्च मे ग्ग्रावाणश्च्च मेऽधिषवने च मे पूतभृच्च मऽआधवनीयश्च्च मे व्वेदिश्च्च मे बर्हिष्च्च मेऽवभृथश्च्च मे स्वगाकारश्च्च मे यज्ञेन कल्प्पन्ताम् २१

अग्ग्निश्च्च मे घर्म्मश्च्च मेऽर्क्कश्च्च मे सूर्य्यश्च्च मे प्प्राणश्च्च मे ऽश्वमेधश्च्च मे पृथिवी च मेऽदितिश्च्च मे दितिश्च्च मे द्यौश्च्च मे ऽङ्गुलयः शक्क्वरयो दिशश्च्च मे यज्ञेन कल्प्पन्ताम् २२

व्रतञ्च मऽऋतवश्च्च मे तपश्च्च मे संव्वत्सरश्च्च मेऽहोरात्रेऽऊर्वष्टठीवे बृहद्रथन्तरे च मे यज्ञेन कल्प्पन्ताम् २३

एका च मे तिस्रश्च मे तिस्रश्च मे पञ्च मे पञ्च मे सप्त च मे सप्त च मे नव च मे नव च मऽएकादश च मऽएकादश च मे त्रयोदश च मे त्रयोदश च मे पञ्चदश च मे पञ्चदश च मे सप्तदश च मे सप्तदश च मे नवदश च मे नवदश च मऽएकवि ᳪ शतिश्च्च म ऽएकवि ᳪ शतिश्च्च मे त्रयोवि ᳪ शतिश्च्च मे त्रयोवि ᳪ शतिश्च्च मे पञ्चवि ᳪ शतिश्च्च मे पञ्चवि ᳪ शतिश्च्च मे सप्तवि ᳪ शतिश्च्च मे सप्तवि ᳪ शतिश्च्च मे नववि ᳪ शतिश्च्च मे नववि ᳪ शतिश्च्च म ऽएकत्रि ᳪ शश्च्च म ऽएकत्रि ᳪ शश्च्च मे त्रयस्त्रि ᳪ शश्च्च मे यज्ञेन कल्प्पन्ताम् २४

चतस्रश्च मेऽष्टौ च मेऽष्टौ च मे द्वादश च मे द्वादश च मे षोडश च मे षोडश च मे वि ᳪ शतिश्च मे वि ᳪ शतिश्च मे चतुर्वि ᳪ शतिश्च मे चतुर्वि ᳪ शतिश्च मेऽष्टावि ᳪ शतिश्च मे मेऽष्टावि ᳪ शतिश्च मे द्वात्रि ᳪ शच्च मे द्वात्रि ᳪ शच्च मे षट्त्रि ᳪ शच्च मे षट्त्रि ᳪ शच्च मे चत्त्वारि ᳪ शच्च मे चत्त्वारि ᳪ शच्च मे चतुश्चत्त्वारि ᳪ शच्च मे चतुश्चत्त्वारि ᳪ शच्च मेऽष्टा चत्त्वारि ᳪ शच्च मे यज्ञेन कल्प्पन्ताम् २५

त्र्यविश्च मे त्र्यवी च मे दित्त्यवाट्च मे दित्त्यौही च मे पञ्चाविश्च्च मे पञ्चावी च मे त्रिवत्त्सश्च्च त्रिवत्त्सा च मे तुर्य्यवाट्च मे तुर्य्यौही च मे यज्ञेन कल्प्पन्ताम् २६

पष्ठ्ठवाट्च मे पष्ठ्ठौही च मऽउक्षा च मे व्वशा च मऽऋषभश्च्च मे व्वेहच्च मेऽनड्वाँश्च्च मे धेनुश्च्च मे यज्ञेन कल्प्पन्ताम् २७

व्वाजाय स्वाहा प्प्रसवाय स्वाहाऽपिजाय स्वाहा क्क्रतवे स्वाहा व्वसवे स्वाहाऽहर्प्पतये स्वाहा ह्नेमुग्धाय स्वाहा मुग्धायवैन ᳪ शिनाय स्वाहा व्विन ᳪ शिनऽआन्त्यायनाय स्वाहान्त्याय भौवनाय स्वाहा भुवनस्यपतये स्वाहाधिपतये स्वाहा प्प्रजापतये स्वाहा इयन्तेराण्म्मित्राय यन्तासि यमन ऽऊर्ज्जे त्त्वा व्वृष्टयै त्त्वा प्प्रजानांत्त्वाधिपत्त्याय २८

आयुर्य्यज्ञेन कलप्पतां प्प्राणो यज्ञेन कलप्पताञ्चक्षुर्य्यज्ञेन कलप्पता ᳪ श्रोत्रं यज्ञेन कलप्पतां व्वाग्ग्यज्ञेन कलप्पताम्मनो यज्ञेन कलप्पतामात्मा यज्ञेन कलप्पतां ब्रह्मा यज्ञेन कलप्पताञ्ज्योतिर्य्यज्ञेन कलप्पता ᳪ स्वर्य्यज्ञेन कलप्पतां पृष्ठंय्यज्ञेन कलप्पतां यज्ञो यज्ञेन कलप्पताम् स्तोमश्च्च यजुश्च्चऽऋक्च साम च बृहच्च रथन्तरञ्च स्वर्द्देवाऽअगन्न्मामृताऽअभूमप्प्रजापतेः प्प्रजाऽअभूमव्वेट्स्वाहा २९

इति रुद्राष्टाध्यायी अष्टमोऽध्यायः ॥८॥

No comments:

Post a Comment