रुद्री का छठा अध्याय – ॥ षष्ठोऽध्यायः ॥


 


रुद्री का छठा अध्याय – ॥ षष्ठोऽध्यायः ॥

ॐ वय ᳪ सोमव्रते तव मनस्तनूषु बिभ्रतः ॥ प्रजावन्तः सचेमहि ॥१॥
एष ते रुद्रभागः सहस्वस्राऽम्बिकया तं जुषस्व स्वाहैष ते रुद्रभाग ऽआखुस्ते पशुः ॥२॥

अव रुद्रमदीमह्यव देवं त्र्यम्बकम् ॥
यथा नो वस्यसस्करद्यथा नः श्रेयसस्करद्यथा नो व्यवसायात् ॥३॥

भेषजमसि भेषजं गवेऽश्वाय पुरुषाय भेषजम् । सुखं मेषाय मेष्यै ॥४॥

त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्द्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय माऽमृतात् ।
त्र्यम्बकं यजामहे सुगन्धिं पतिवेदनम् । उर्वारुकमिव बन्धनादितो मुक्षीय मामुतः ॥५॥

एतत्ते रुद्राऽवसं तेन परो यमूजवतोऽतीहि ॥
अवतत धन्वा पिनाकवासः कृत्तिवासा ऽअहि ᳪ सन्नः शिवोऽतीहि ॥६॥

त्र्यायुषं जमदग्ने कश्यपस्य त्र्यायुषम् ॥ यद्देवेषु त्र्यायुषं तन्नोऽअस्तु त्र्यायुषम् ॥७॥

शिवो नामाऽसि स्वधितिस्ते पिता नमस्तेऽअस्तु मा मा हि ᳪ सीः ॥
निवर्त्तयाम्यामुषेऽन्नाद्याय प्रजननाय रायस्पोषाय सुप्रजास्त्वाय सुवीर्याय ॥८॥

इति रुद्राष्टाध्यायी षष्ठोऽध्यायः ॥६॥


No comments:

Post a Comment