रुद्री का तीसरा अध्याय – ॥ तृतीयोऽध्यायः ॥


 


रुद्री का तीसरा अध्याय –  तृतीयोऽध्यायः 

ॐ आशु: शिशानोवृषभो न भीमो घनाघन: क्षोभणश्चर्षणीनाम्।
संक्रन्दनो ऽनिमिष एकवीरः शत ᳪ सेना ऽअजयत् साकमिन्द्रः॥१॥

संक्रन्दनेनानिमिषेण जिष्णुना युत्कारेण दुश्च्यवनेन धृष्णुना।
तदिन्द्रेण जयत तत्सहध्वं युधो नर ऽइषुहस्तेन वृष्णा॥२॥

सऽइषुहस्तैः सनिषङ्गिभिर्वशी ᳪ स्रष्टा सयुधऽइन्द्रोगणेन।
स ᳪ सृष्टजित्सोमपा बाहुशर्ध्युग्रधन्वा प्रतिहिताभिरस्ता॥३॥

बृहस्पते परिदीया रथेन रक्षोहामित्राँ२ ऽअपबाधमानः।
प्रभञ्जन्त्सेनाः प्रमृणो युधा जयन्नस्माकमेध्यविता रथानाम्॥४॥

बलविज्ञाय स्थविरः प्रवीरः सहस्वान् वाजी सहमान ऽउग्रः।
अभिवीरो ऽअभित्त्वा सहोजा जैत्रमिन्द्र रथमा तिष्ठ गोवित्॥५॥

गोत्रभिदं गोविदं वज्रबाहुं जयन्तमज्म प्रमृणन्तमोजसा।
इम ᳪ सजाता ऽअनुवीरयध्वमिन्द्र ᳪ सखायो ऽअनुस ᳪ रभध्वम्॥६॥

अभिगोत्राणि सहसा गाहमानोऽदयो वीरः शतमन्युरिन्द्रः।
दुश्च्यवनः पृतनाषाडयुध्योऽस्माक ᳪ सेना ऽअवतु प्र युत्सु॥७॥

इन्द्र ऽआसान्नेता बृहस्पतिर्दक्षिणा यज्ञः पुर ऽएतु सोमः।
देवसेनानामभिभञ्जतीनां जयन्तीनां मरुतोयन्त्वग्रम्॥७॥

इन्द्रस्य वृष्णोवरुणस्य राज्ञऽआदित्यानां मरुता ᳪ शर्द्धऽउग्रम्।
महामनसां भुवनच्यवानां घोषो देवानां जयतामुदस्थात्॥९॥

उद्धर्षय मघवन्नायुधान्युत्सत्वनां मामकानां मना ᳪ सि।
उद्वृत्रहन्वाजिनां वाजिनान्युद्रथानां जयतां यन्तु घोषाः॥१०॥

अस्माकमिन्द्र: समृतेषु ध्वजेष्वस्माकं या ऽइषवस्ता जयन्तु।
अस्माकं वीरा उत्तरे भवन्त्वस्माँ२ उ देवा ऽअवता हवेषु॥११॥

अमीषां चित्तं प्रतिलोभयन्ती गृहाणाङ्गान्यप्वे परेहि।
अभि प्रेहिनिर्दह हृत्सु शोकैरन्धेनामित्रास्तमसा सचन्ताम्॥१२॥

अवसृष्टा परापत शरव्ये ब्रह्मस ᳪ शिते।
गच्छामित्रान् प्रपद्यस्व मामीषां कंचनोच्छिषः॥१३॥

प्रेता जयता नर ऽइन्द्रो वः शर्म यच्छतु।
उग्रा वः सन्तु बाहवोनाधृष्या यथासथ॥१४॥

असौ या सेना मरुतः परेषामभ्यैति न ऽओजसा स्पर्धमाना।
तां गूहत तमसापव्रतेन यथाऽमी ऽअन्यो ऽअन्यं न जानन्॥१५॥

यत्र बाणा: सम्पतन्ति कुमारा विशिखा ऽइव।
तन्न इन्द्रोबृहस्पतिरदितिः शर्म्म यच्छतु विश्वाहा शर्म्मयच्छतु॥१६॥

मर्म्माणि ते वर्म्मणा च्छादयामि सोमस्त्वा राजामृतेनानु वस्ताम्।
उरोर्वरीयो वरुणस्ते कृणोतु जयन्तं त्वानु देवा मदन्तु ॥१७॥

इति रुद्राष्टाध्यायी तृतीयोऽध्यायः ॥३॥

No comments:

Post a Comment